|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.228. अध्यायः 228
Mahabharata - Vana Parva - Chapter Topics
षडृषिभिर्लोकापवादभयात्स्वपत्नीनां परित्यागः ॥ 1 ॥ विश्वामित्रेण कुमारस्य जातकर्मादिना संस्करणम् ॥ 2 ॥ स्कन्दपराक्रमासहिष्णुना शक्रेण स्कन्देन सहाऽऽयोधनम् ॥ 3 ॥ इन्द्रवज्राभिहतात्स्कन्दस्य दक्षिणपार्श्वाद्विशास्वस्य तथा कुमाराणां कन्यानां च समुद्भवः ॥ 4 ॥ स्कन्दाद्भीतेनेन्द्रेण तेन सह संधानम् ॥ 5 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-228-0x(2546)(24834)
तस्मिञ्जाते महासत्त्वे महासेने महाबले।
समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः ॥ 1 ॥ 3-228-1(24835)
स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च।
ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् ॥ 3-228-2(24836)
ऋषयश्च महाघोरान्दृष्ट्वोत्पातान्समन्ततः।
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥ 3-228-3(24837)
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः।
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्।
संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥ 3-228-4(24838)
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः।
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ॥ 3-228-5(24839)
न तु तत्स्वाहया कर्म कृतंजानाति वै जनः ॥ 3-228-6(24840)
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति।
उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥ 3-228-7(24841)
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्।
तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम्।
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ॥ 3-228-8(24842)
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत।
अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः ॥ 3-228-9(24843)
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः।
पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्।
तत्तेन निखिलं सर्वमवबुध्य यथातथम् ॥ 3-228-10(24844)
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः।
स्तवं दिव्यं संप्रचक्रे महासेनस् चापि सः ॥ 3-228-11(24845)
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश।
जातकर्मादिकास्तस् क्रियाश्चक्रे महामुनिः ॥ 3-228-12(24846)
पड्वक्रस्य तु मांहात्म्यं कुक्कुटस्य तु साधनम्।
शक्त्या देव्याः साधनं च तथा पारिषदामषि ॥ 3-228-13(24847)
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै।
तस्मादृषिः कुमारस् विश्वामित्रोऽभवत्प्रियः ॥ 3-228-14(24848)
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः।
अब्रवीच्च मुनीन्सर्वाननापराध्यन्ति वै स्त्रियः।
श्रुत्वा तु तत्वतस्तस्मात्ते पत्नीः सर्वतोत्यजन् ॥ 3-228-15(24849)
मार्कण्डेय उवाच। 3-228-16x(2547)
स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन्।
अविषह्यं वलं स्कन्दं जहि शक्राशु माचिर् ॥ 3-228-16(24850)
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति।
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबला ॥ 3-228-17(24851)
स तानुवाच व्यथितो वालोऽयं सुमहाबलः।
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्।
[न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते ॥ 3-228-18(24852)
तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभासे।]
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ॥ 3-228-19(24853)
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः।
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ॥ 3-228-20(24854)
अशक्योऽयंविचिन्त्यैवं तमेव शरणं ययुः।
ऊचुश्चैनं त्वमस्माकं पुत्रोऽस्माभिर्धृतंजगत् ॥ 3-228-21(24855)
अभिनन्द्य ततः सर्वाः प्रस्नुताः स्नेहविक्लबाः।
[तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः] ॥ 3-228-22(24856)
ताः संपूज्य महासेनःकामांश्चासां प्रदाय सः।
अपश्यदग्निमायान्तं पितरं बलिनां बली ॥ 3-228-23(24857)
स तु संपूजितस्तेन सह मातृगणेन ह।
परिवार्य महासेनं रक्षमाणः स्थितः शिवः ॥ 3-228-24(24858)
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा।
धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत ॥ 3-228-25(24859)
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना।
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥ 3-228-26(24860)
अग्निर्भूत्वा नैगमेयश्छागवक्रो बहुप्रजः।
रमयामास शैलस्तं बालं क्रीडनकैरिव ॥ 3-228-27(24861)
ब्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा।
हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः ॥ 3-228-28(24862)
एते चान्ये च बहवो घोरास्त्रिदिववासिनः।
परिवार्य महासेनं स्थिता मातृगणैः सह ॥ 3-228-29(24863)
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः।
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ॥ 3-228-30(24864)
आदाय वज्रं बवान्सर्वैर्देवगणैर्वृतः।
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥ 3-228-31(24865)
`इन्द्रस्तस्य महावेगं दृष्ट्वाऽद्भुतपराक्रमम्।
विस्मितश्चाभवद्राजन्देवानीकमचोदयत् ॥ 3-228-32(24866)
उग्रं तं च महानादं देवानीकं महाप्रभम्।
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम्' ॥ 3-228-33(24867)
प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम्।
विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात् ॥ 3-228-34(24868)
वियत्पतिः स शक्रस्तु द्रुतमायान्महाबलः।
संहर्पयन्देवसेनां जिघांसुः पावकात्मजम् ॥ 3-228-35(24869)
संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः।
समीपमथ संप्राप्तो वह्निपुत्रस्य वासवः ॥ 3-228-36(24870)
सिंहनादं ततश्चक्रे देवेशः सहितैः सुरैः।
गुहोऽपिशब्दं तं श्रुत्वा व्यनदात्सागरो यथा ॥ 3-228-37(24871)
तस्य शब्देन महता समुद्धूतोदधिप्रभम्।
वभ्राम तत्रतत्रैव दैवसैन्यमचेतनम् ॥ 3-228-38(24872)
जिधांसूनुपसंप्राप्तान्देवान्दृष्ट्वा सपावकिः।
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ॥ 3-228-39(24873)
अदहद्देवसैन्यानि वेपमानानि भूतले ॥ 3-228-40(24874)
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः।
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥ 3-228-41(24875)
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्।
देवा वज्रधरं त्यक्त्वाततः शानतिमुपागताः ॥ 3-228-42(24876)
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रो न्यपातयत् ॥ 3-228-43(24877)
तद्विसृष्टं जघानाशु पर्श्वं स्कन्दस्य दक्षिणम्।
विभेद च महाराज पार्श्वं तस्य महात्मनः ॥ 3-228-44(24878)
वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः।
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः ॥ 3-228-45(24879)
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥ 3-228-46(24880)
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम्।
भयादिनद्रस्तुत तं स्कन्दं प्राञ्जलिः शरणं गतः ॥ 3-228-47(24881)
तस्याभयंददौ स्कन्दः सहसैन्यस् सत्तम।
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥ 3-228-48(24882)
स्कन्दपारिषदान्धोराञ्छृणुष्वाद्भुतदर्शनान्।
वज्रप्हहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः।
ये हरन्ति शिशूञ्जातान्गर्भस्थाश्चैव दारुणाः ॥ 3-228-49(24883)
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस् महाबलाः ॥ 3-228-50(24884)
कुमारान्स विशखं च पुत्रत्वे समकल्पयत्।
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा ॥ 3-228-51(24885)
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः।
मातृणां प्रेषितानां च भद्रशाखश्चकोमलैः ॥ 3-228-52(24886)
ततः कुमारं संजातं स्कन्दमाहुर्जना भुवि।
रुद्रमग्निमुखां स्वाहां प्रदेशेषु महाबलाः ॥ 3-228-53(24887)
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः।
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः ॥ 3-228-54(24888)
किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषयन् ॥ 3-228-55(24889)
भवेम सर्वलोकस्य मातरो वयमुत्तमाः।
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥ 3-228-56(24890)
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः।
शिवाश्चैवाशिवाश्चैव पुनःपुनःरुदारधीः ॥ 3-228-57(24891)
`अग्निर्भूत्वा ततश्चैनं छागवक्रो बहुप्रजः।
रमयामास शैलस्थं बलं क्रीडनकैरिव' ॥ 3-228-58(24892)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-228-2 विपरीतं वैरम्। द्वन्द्वानि अतिशीतात्युष्णादीनि ॥ 3-228-15 श्रुत्वा तु ध्रुत्वापि। सर्वतः लोकापवादभयाद्रामवत्पत्नीस्त्यक्तवन्त इत्यर्थः। अथाव्रवीत्तान्सप्तर्षीन्युष्मत्पत्नीष्वयं शिशुः। षट्रसु जातोहुवहात्ते चाग्रेस्त्वग्रतोल्यजन्। इति ध. पाठः ॥ 3-228-46 वज्रस्य विशनात् बाहोराखननाच्चविशाख इत्यर्थः ॥ 3-228-51 कुमारास्ते=पितृत्वे इति झ. पाठः ॥ 3-228-53 ततः कुमारपितरमिति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|